1, సెప్టెంబర్ 2024, ఆదివారం

क्रीडावार्ताः

 सन्भाषण संस्कृतम्

(वार्तावाहिनी)


अद्यतन संस्कृतवार्ताः श्रावयितुं भवतां पुरतः उपस्थितः अस्ति डाक्टर् राजेन्द्रप्रसादः


ह्यः आरभ्य तॆलङ्गाणा राज्ये  अत्यंतं महती वृष्टिहि पतंती अस्ति, अपिच भाविनिदिनेषु  अतिवृष्टिहि भविष्यति इति तॆलङ्गाणा वातावरणशाखा जनान् उद्दिश्य सूचनाः दत्तवती आसीत्,  


सातत्यवर्ष कारणेन तॆलङ्गाणा राज्ये स्थिताः नद्यः, सरांसि, कूपाः,  गर्ताः च वर्षजलेन पूरिताः आसन्। सर्वाणि नगराणि  जलमयानि जातानि च 


अतिवृष्टिकारणेन तॆलङ्गाणा राजधान्यां,  भाग्यनगरे वीथयः, सङ्कुचितमार्गाः, प्रधानमार्गाः, निम्नस्थलानिच, सर्वाणि अपि जलमयानि जातानि, पादचाराः, वाहनचालकाः, लोकयानचालकाः, कार् यान चालकाः द्विचक्र वाहन चालकाः, त्रिचक्र वाहन चालकाः, चतुश्चक्र वाहन चालकाः च नाना विधानि कष्टानि अनुभवन्तः संति।


प्रभुत्वस्य अधिकारिणः  मत्स्यकार ग्रहीतॄन् आदिष्टवन्तः,  यत् मत्स्यान्  ग्रहीतुं नद्यां मा प्रविशंतु इति।


अद्य वेदान्तवर्थिनी संस्कृतकलाशालायां संस्कृतभाषा पूर्वविद्यार्धि-सम्मेलनं प्रातः नव वादनतः सायं पञ्चवादन पर्यन्तं भवति इति, संस्कृतभाषा प्राचार्यः श्री उपेन्द्रमहोदयः सम्भाषण संस्कृतं वार्तावाहिन्याः सञ्चालकं राजेन्द्रप्रसादं प्रति असूचयत्, 


अस्मिन् कार्यक्रमे भागं ग्रहीतुं भारतस्य राजधानीदेहलीतः अहम् आगतः अस्मि इति डाक्टर् उपेन्द्रमहोदयः असूचयत्, अयं महोदयः देहली राज्ये,  उद्योगं कुर्वन्, तॆलङ्गाणा राज्ये संस्कृतभाषा विश्वविद्यालयस्य निर्माणं भवतु, तदर्थं तॆलङगाणा प्रजाः, छात्राः संस्कृतभाषा अभिमानिनः, गुरवः च प्रयत्नं कुर्वन्तु इति,  तॆलङ्गाणा जनान् छात्रान् च, उद्दिश्य  बहुवारम् उद्बोधितवान् आसीत्, 


परिगि, विकाराबाद् जिल्लायां, शासनसभ्यस्य, केन्द्र कार्यालये,  स्थानिकनायकैः सह  शासनसभ्यः डाक्टर्, टि राम्मोहन् रॆड्डि वर्यः,  षड् विंशति, योग्येभ्यः जनेभ्यः कळ्याणलक्ष्मी षादीमुबारक् वित्तपत्राणि वितीर्णवान्, निर्धनकुटुम्ब, महिळानां  विवाहाय, कळ्याणाय, मङ्गळसूत्रं क्रेतुं, विवाहकर्माणि च आचरितुं , कर्तुं, कारयितुं च   कळ्याणलक्ष्मी षादीमुबारक् पथकद्वयं अत्यन्तम् उपकुर्वत् अस्ति इति अभिवर्णितवान्,


सातत्यम् अतिवृष्टिः जायमाना अस्ति इति कारणेन सर्वत्र प्रजाः अप्रमत्तेन भवेयुः इति, व्यवसाय सहकारसङ्घस्य निर्देशकः नीलवर्धन् रॆड्डि, एकस्मिन् प्रकटने असूचयत्, 


शनिवासरे गिरिजन आर्थिक संक्षेम सहकार संस्थायाः अध्यक्षरूपेण चितं, बॆल्ला नायक महोदयं कांग्रॆस् दलीयस्य मुख्यनायकाः  वेणुगोपालः, चिट्टॆं प्रणीत् कुमारः तदितराः अभिनंदितवन्तः, अभ्यनन्दन् च 


पूर्वं सकलविधमानवाः संस्कृतेन वदंति स्म इति,  सामान्यप्रजाः सकलविधप्रजाः संस्कृतमाध्यमेन एव सकलविधानि शास्त्राणि संस्कृतभाषा गुरवः पाठितवन्तः इति, अतः एव पूर्वं  रामः कृष्णः , वाल्मीकिः, वेदव्यासः  इत्यादि विश्वप्रसिद्धाः नायकाः कवयः प्रादुर्भूताः अभवन् इति वैद्यः - राजेन्द्रप्रसादः संस्कृतभाषा तरगत्याम् छात्रान् असूचयत्, 


प्रमाणानि अपि दर्शितवान्, 


पुनः संस्कृतभाषां जनभाषां कुर्मः इति छात्रान् उद्दिश्य उद्बोधितवान्।


क्रीडावार्ताः, 


तॆलङ्गाणा राज्ये अति वर्षाणाम् कारणेन  क्रिकॆट् क्रीडायाः अधिकारिणः प्रभुत्वक्रीडाङ्गणेषु क्रिकॆट् क्रीडाः व्याक्षिप्तं कृतवन्तः, 


टॆस्ट् क्रिकॆट् चरित्रायां प्रप्रथमवारं बङ्ग्लादेशस्य हस्ते पाकिस्तान् क्रिकॆट् गणः पराजितः अभवत्, द्वितीयदिने अपि अधिकान् अङ्कान् साधयितुम् पाकिस्तान् क्रिकॆट् गणः अशक्तः  अभवत्, 


इति संस्कृतवार्ताः

वैद्यः राजेन्द्रप्रसादः

फोन् पे नॆं ९८४९६४१८९२

కామెంట్‌లు లేవు: